सुभाषित

कल्याण मन्त्र
ॐ सर्वे भवन्तु सुखिनः।
सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु।
मा कश्चित् दुःख भाग्भवेत्॥
ॐ शान्तिः शान्तिः शान्तिः ॥
गायत्री मन्त्र
ॐ भूर् भुवः स्वः।
तत् सवितुर्वरेण्यं।
भर्गो देवस्य धीमहि।
धियो यो नः प्रचोदयात् ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
एकात्मता मन्त्र
यं वैदिका मन्त्रदृशः पुराणा
इन्द्रं यमं मातरिश्वानम् आहुः।
वेदन्तिनोऽनिर्वचनीयम् एकं
यं ब्रह्मशब्देन विनिर्दिशन्ति॥१॥
शैवा यम् ईशं शिव इत्यवोचन्
यं वैष्णवा विष्णुरिति स्तुवन्ति।
बुद्धस्तथाऽर्हन्निति बौद्धजैनाः
सत्-श्री-अकालेति च सिक्खसन्तः॥२॥
शास्तेति केचित् प्रकृतिः कुमारः
स्वामीति मातेति पितेति भक्त्या।
यं प्रार्थयन्ते जगदीशितारं
स एक एव प्रभुरद्वितीयः॥३॥
ॐ शान्तिः शान्तिः शान्तिः॥